श्रीलक्ष्मीस्तव

॥ श्रीलक्ष्मीस्तव ॥ 

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १॥

नमस्ते गरुडारूढे कोलासुरभयङ्करि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३॥

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४॥

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥ ५॥

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६॥

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ७॥

श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ८॥

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९॥

एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १०॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११॥

॥ इति श्रीमहालक्ष्मीस्तव ॥

इन्द्र बोले- श्रीपीठपर स्थित और देवताओं से पूजित होने वाली हे महामाये। तुम्हें नमस्कार है। हाथ में शङ्ख, चक्र और गदा धारण करने वाली हे महालक्ष्मी! तुम्हें प्रणाम है॥1॥ 
गरुडपर आरूढ हो कोलासुर को भय देने वाली और समस्त पापों को हरने वाली हे भगवति महालक्ष्मी! तुम्हें प्रणाम है॥2॥ 
सब कुछ जानने वाली, सबको वर देने वाली, समस्त दुष्टों को भय देने वाली और सबके दु:खों को दूर करने वाली, हे देवि महालक्ष्मी! तुम्हें नमस्कार है॥3॥ 
सिद्धि, बुद्धि, भोग और मोक्ष देने वाली हे मन्त्रपूत भगवति महालक्ष्मी! तुम्हें सदा प्रणाम है॥4॥
हे देवि! हे आदि-अन्त-रहित आदिशक्ते ! हे महेश्वरि! हे योग से प्रकट हुई भगवति महालक्ष्मी! तुम्हें नमस्कार है॥5॥ 
हे देवि! तुम स्थूल, सूक्ष्म एवं महारौद्ररूपिणी हो, महाशक्ति हो, महोदरा हो और बडे-बडे पापों का नाश करने वाली हो। हे देवि महालक्ष्मी! तुम्हें नमस्कार है॥6॥ 
हे कमल के आसन पर विराजमान परब्रह्मस्वरूपिणी देवि! हे परमेश्वरि! हे जगदम्ब! हे महालक्ष्मी! तुम्हें मेरा प्रणाम है॥7॥ 
हे देवि तुम श्वेत वस्त्र धारण करने वाली और नाना प्रकार के आभूषणों से विभूषिता हो। सम्पूर्ण जगत् में व्याप्त एवं अखिल लोक को जन्म देने वाली हो। हे महालक्ष्मी! तुम्हें मेरा प्रणाम है॥8॥ 
जो मनुष्य भक्ति युक्त होकर इस महालक्ष्म्यष्टक स्तोत्र का सदा पाठ करता है, वह सारी सिद्धियों और राज्यवैभव को प्राप्त कर सकता है॥9॥ 
जो प्रतिदिन एक समय पाठ करता है, उसके बडे-बडे पापों का नाश हो जाता है। जो दो समय पाठ करता है, वह धन-धान्य से सम्पन्न होता है॥10॥ 
जो प्रतिदिन तीन काल पाठ करता है उसके महान् शत्रुओं का नाश हो जाता है और उसके ऊपर कल्याणकारिणी वरदायिनी महालक्ष्मी सदा ही प्रसन्न होती हैं॥11॥

देवकृत लक्ष्मी स्तोत्रम्

 || देवकृत लक्ष्मी स्तोत्रम्  ||
क्षमस्व भगवंत्यव क्षमाशीले परात्परे |
शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ||
उपमे सर्वसाध्वीनां देवीनां देवपूजिते |
त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ||
सर्वसंपत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी |
रासेश्वर्यधि देवी त्वं त्वत्कलाः सर्वयोषितः ||
कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका |
स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ||
वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती |
गंगा च तुलसी त्वं च सावित्री ब्रह्मालोकतः ||
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् |
रासे रासेश्वरी त्वं च वृंदावन वने- वने ||
कृष्णा प्रिया त्वं भांडीरे चंद्रा चंदनकानने |
विरजा चंपकवने शतशृंगे च सुंदरी ||
पद्मावती पद्मवने मालती मालतीवने |
कुंददंती कुंदवने सुशीला केतकीवने ||
कदंबमाला त्वं देवी कदंबकाननेऽपि च |
राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ||
इत्युक्त्वा देवताः सर्वा मुनयो मनवस्तथा |
रूरूदुर्नम्रवदनाः शुष्ककंठोष्ठ तालुकाः ||
इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् |
यः पठेत्प्रातरूत्थाय स वै सर्वै लभेद् ध्रुवम् ||
अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् |
सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् ||
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् |
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् |
परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम् |
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ||
हतबंधुर्लभेद्बंधुं धनभ्रष्टो धनं लभेत् |
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद् ध्रुवम् ||
सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् |
हर्षानंदकरं शश्वद्धर्म मोक्षसुहृत्प्रदम् ||
|| इति श्रीदेवकृत लक्ष्मीस्तोत्रं संपूर्णम् ||

देवकृत लक्ष्मी स्तोत्रम्

 || देवकृत लक्ष्मी स्तोत्रम्  ||
क्षमस्व भगवंत्यव क्षमाशीले परात्परे |
शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ||
उपमे सर्वसाध्वीनां देवीनां देवपूजिते |
त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ||
सर्वसंपत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी |
रासेश्वर्यधि देवी त्वं त्वत्कलाः सर्वयोषितः ||
कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका |
स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ||
वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती |
गंगा च तुलसी त्वं च सावित्री ब्रह्मालोकतः ||
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् |
रासे रासेश्वरी त्वं च वृंदावन वने- वने ||
कृष्णा प्रिया त्वं भांडीरे चंद्रा चंदनकानने |
विरजा चंपकवने शतशृंगे च सुंदरी ||
पद्मावती पद्मवने मालती मालतीवने |
कुंददंती कुंदवने सुशीला केतकीवने ||
कदंबमाला त्वं देवी कदंबकाननेऽपि च |
राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ||
इत्युक्त्वा देवताः सर्वा मुनयो मनवस्तथा |
रूरूदुर्नम्रवदनाः शुष्ककंठोष्ठ तालुकाः ||
इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् |
यः पठेत्प्रातरूत्थाय स वै सर्वै लभेद् ध्रुवम् ||
अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् |
सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् ||
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् |
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् |
परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम् |
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ||
हतबंधुर्लभेद्बंधुं धनभ्रष्टो धनं लभेत् |
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद् ध्रुवम् ||
सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् |
हर्षानंदकरं शश्वद्धर्म मोक्षसुहृत्प्रदम् ||
|| इति श्रीदेवकृत लक्ष्मीस्तोत्रं संपूर्णम् ||

महालक्ष्मी-कवच

महालक्ष्मी-कवच

 

 

 

 

 

 

 

 

 

 

 

 

नारायण उवाच
सर्व सम्पत्प्रदस्यास्य कवचस्य प्रजापतिः। ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम्।।१
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः। पुण्यबीजं च महतां कवचं परमाद्भुतम्।।२
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्। श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः।।३
ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदावतु। ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम्।।४
ॐ श्रीं पद्मालयायै च स्वाहा दन्तं सदावतु। ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदावतु।।५
ॐ श्रीं नारायणेशायै मम कण्ठं सदावतु। ॐ श्रीं केशवकान्तायै मम स्कन्धं सदावतु।।६
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदावतु। ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदावतु।।७
ॐ श्रीं श्रीं कृष्णकान्तायै स्वाहा पृष्ठं सदावतु। ॐ ह्रीं श्रीं श्रियै स्वाहा मम हस्तौ सदावतु।।८
ॐ श्रीं निवासकान्तायै मम पादौ सदावतु। ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वांगं मे सदावतु।।९
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया। पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीहरिप्रिया।।१०
पद्मालया पश्चिमे मां वायव्यां पातु श्रीः स्वयम्। उत्तरे कमला पातु ऐशान्यां सिन्धुकन्यका।।११
नारायणेशी पातूर्ध्वमधो विष्णुप्रियावतु। संततं सर्वतः पातु विष्णुप्राणाधिका मम।।१२

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्। सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम्।।१३
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये। यत् फलं लभते धर्मी कवचेन ततोऽधिकम्।।१४
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् तु यः। कण्ठे वा दक्षिणे वाहौ स श्रीमान् प्रतिजन्मनि।।१५
अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम्। देवेन्द्रैश्चासुरेन्द्रैश्च सोऽत्रध्यो निश्चितं भवेत्।।१६
स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः। स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले।।१७
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि। गुरुभक्ताय शिष्याय शरणाय प्रकाशयेत्।।१८
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्सूम्। कोटिसंख्यं प्रजप्तोऽपि न मन्त्रः सोद्धिदायकः।।१९
।।श्री ब्रह्मवैवर्ते महालक्ष्मी कवचं।।
(गणपतिखण्ड ३८।६४-८२)

दुर्गाष्टोत्तरशतनामस्तोत्रं ( विश्वसारतन्त्र )

।। दुर्गाष्टोत्तरशतनामस्तोत्रं ( विश्वसारतन्त्र ) ।।

।। ॐ ।।

।। श्री दुर्गायै नमः ।।

।। श्री दुर्गाष्टोत्तरशतनामस्तोत्रम् ।।

ईश्वर उवाच ।

शतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ।। १।।

ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ।। २।।

पिनाकधारिणी चित्रा चण्डघण्टा महातपाः ।
मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः ।। ३।।

सर्वमन्त्रमयी सत्ता सत्यानन्द स्वरूपिणी ।
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ।। ४।।

शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा ।
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ।। ५।।

अपर्णानेकवर्णा च पाटला पाटलावती ।
पट्टाम्बर परीधाना कलमञ्जीररञ्जिनी ।। ६।।

अमेयविक्रमा क्रुरा सुन्दरी सुरसुन्दरी ।
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ।। ७।।

ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ।। ८।।

विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा ।
बहुला बहुलप्रेमा सर्ववाहन वाहना ।। ९।।

निशुम्भशुम्भहननी महिषासुरमर्दिनी ।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ।। १०।।

सर्वासुरविनाशा च सर्वदानवघातिनी ।
सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ।। ११।।

अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।
कुमारी चैककन्या च कैशोरी युवती यतिः ।। १२।।

अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा ।
महोदरी मुक्तकेशी घोररूपा महाबला ।। १३।।

अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी ।
नारायणी भद्रकाली विष्णुमाया जलोदरी ।। १४।।

शिवदूती कराली च अनन्ता परमेश्वरी ।
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ।। १५।।

य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ।। १६।।

धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।
चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ।। १७।।

कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् ।
पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ।। १८।।

तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि ।
राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ।। १९।।

गोरोचनालक्तककुङ्कुमेव सिन्धूरकर्पूरमधुत्रयेण ।
विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः ।। २०।।

भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते ।
विलिख्य प्रपठेत् स्तोत्रं स भवेत् संपदां पदम् ।। २१।।

।। इति श्री विश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ।।