|| शनैश्चरस्तवराजः ||
श्री गणेशाय नमः ||
नारद उवाच ||
ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः |
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम || १||
शिरो में भास्करिः पातु भालं छायासुतोऽवतु |
कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती || २||
घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु |
स्कन्धौ संवर्तकः पातु भुजौ मे भयदोऽवतु || ३||
सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु |
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः || ४||
पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः |
रक्षामेतां पठेन्नित्यं सौरेर्नामबलैर्युताम् || ५||
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः |
सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः || ६||
शुष्कोदरो विशालाक्षो र्दुनिरीक्ष्यो विभीषणः |
शिखिकण्ठनिभो नीलश्छायाहृदयनन्दनः || ७||
कालदृष्टिः कोटराक्षः स्थूलरोमावलीमुखः |
दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः || ८||
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः |
मन्दो मन्दगतिः खंजो तृप्तः संवर्तको यमः || ९||orअतृप्तः
ग्रहराजः कराली च सूर्यपुत्रो रविः शशी |
कुजो बुधो गुरूः काव्यो भानुजः सिंहिकासुतः || १०||
केतुर्देवपतिर्बाहुः कृतान्तो नैऋतस्तथा |
शशी मरूत्कुबेरश्च ईशानः सुर आत्मभूः || ११||
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः |
कर्ता हर्ता पालयिता राज्यभुग् राज्यदायकः || १२||orराज्येशो
छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः |
क्रूरकर्मविधाता च सर्वकर्मावरोधकः || १३||
तुष्टो रूष्टः कामरूपः कामदो रविनन्दनः |
ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः || १४||
स्थिरासनः स्थिरगतिर्महाकायो महाबलः |
महाप्रभो महाकालः कालात्मा कालकालकः || १५||
आदित्यभयदाता च मृत्युरादित्यनंदनः |
शतभिद्रुक्षदयिता त्रयोदशितिथिप्रियः || १६||
तिथ्यात्मा तिथिगणनो नक्षत्रगणनायकः |orतिथ्यात्मकस्तिथिगणो
योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः || १७||
शमीपुष्पप्रियः श्यामस्त्रैलोक्याभयदायकः |
नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः || १८||
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः |
अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः || १९||
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् |
कृत्वा पूजां पठेन्मर्त्यो भक्तिमान्यः स्तवं सदा || २०||
विशेषतः शनिदिने पीडा तस्य विनश्यति |
जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे || २१||
दशासु च गते सौरे तदा स्तवमिमं पठेत् |
पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः || २२||
विधाय लोहप्रतिमां नरो दुःखाद्विमुच्यते |
वाधा याऽन्यग्रहाणां च यः पठेत्तस्य नश्यति || २३||
भीतो भयाद्विमुच्येत बद्धो मुच्येत बन्धनात् |
रोगी रोगाद्विमुच्येत नरः स्तवमिमं पठेत् || २४||
पुत्रवान्धनवान् श्रीमान् जायते नात्र संशयः || २५||
नारद उवाच ||
स्तवं निशम्य पार्थस्य प्रत्यक्षोऽभूच्छनैश्चरः |
दत्त्वा राज्ञे वरः कामं शनिश्चान्तर्दधे तदा || २६||
|| इति श्री भविष्यपुराणे शनैश्चरस्तवराजः सम्पूर्णः ||
Pages
Archives
visitors
-
Blog Stats
- 20,075 hits
-
Recent Posts
-
Recent Comments
- Alpa Patel on शिवाष्टकं
- uma on ‘गणपति अथर्वशीर्ष
- sangeetha on श्री वैद्यनाथाष्टकम्
- kalpesh darji on श्री वैद्यनाथाष्टकम्
- Rakesh on Ajay Singh
-
Top Posts
Total Posta
गणपति अथर्वशीर्ष, देवी कवच, श्री कालभैरवाष्टकं, दुर्गासहस्रनामस्तोत्रम्, वाल्मीकि द्वारा श्रीगणेश का स्तवन, शनिवज्रपंजरकवचम्, शनैश्चरस्तवराजः, शनैश्चरस्तोत्रम्, ऋणमोचकमङ्गलस्तोत्रम्, अङ्गारक अष्टोत्तर शतनामावलि, चन्द्र अष्टोत्तरशतनामावलिः , बुध अष्टोत्तरशतनामवलिः, शुक्र अष्टोत्तरशतनामावलिः , केतु१०८, द्वादश ज्योतिर्लिङ्ग स्तोत्रम्, श्रीविश्वनाथाष्टकं, श्री वैद्यनाथाष्टकम्, शिवाष्टकं, गुरु अष्टोत्तरशतनामावलिः , श्री सिद्धि विनायक नामावलि, श्री विनायक अष्टोत्तरशत नामावली

One Comment
बहुत बढ़िया। यदि इसका हिंदी रूपांतरण मिल जाये तो सोने पे सुहागा हो जायेगा। मुझ जैसा तुच्छात्मी भी देववाणी को समझ कर अपने जीवन में उतारने की चेष्टा कर सकेगा!