|| शनिवज्रपंजरकवचम् ||
श्री गणेशाय नमः ||
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् |
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः || १||
ब्रह्मा उवाच ||
शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् |
कवचं शनिराजस्य सौरेरिदमनुत्तमम् || २||
कवचं देवतावासं वज्रपंजरसंज्ञकम् |
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् || ३||
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः |
नेत्रे छायात्मजः पातु पातु कणौं यमानुजः || ४||
नासां वैवस्वतः पातु मुखं मे भास्करः सदा |
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः || ५||
स्कन्धौ पातु शनिश्चैव करौ पातु- शुभप्रदः |
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा || ६||
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा |
ऊरू ममान्तकः पातु यमो जानुयुगं तथा || ७||
पदौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः |
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः || ८||
इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः |
न तस्य जायते पीडा प्रीतो भवति सूर्यजः || ९||
व्यय- जन्म- द्वितीयस्थो मृत्युस्थानगतोऽपि वा |
कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः || १०||
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे |
कवचं पठते नित्यं न पीडा जायते क्वचित् || ११||
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा |
द्वादशाऽष्टमजन्मस्थदोषान्नाशयते सदा |
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः || १२||
|| इति श्री ब्रह्माण्डपुराणे ब्रह्म- नारदसंवादे शनिवज्रपंजरकवचम् सम्पूर्णम् ||
पृष्ठ
अभिलेख
visitors
-
Blog Stats
- 94,568 hits
-
Recent Posts
-
हाल ही की टिप्पणियाँ
- Bhavik on देवी कवच/चण्डी कवच
- Lalit Mehta on श्री-कृष्ण-सहस्त्रनाम-स्तोत्र
- sanjay kumar on श्री कालभैरवाष्टकं
- sanjay kumar on देवी कवच/चण्डी कवच
- Supriya on वाल्मीकि द्वारा श्रीगणेश का स्तवन
-
Top Posts
Total Posta
गणपति अथर्वशीर्ष, देवी कवच, श्री कालभैरवाष्टकं, दुर्गासहस्रनामस्तोत्रम्, वाल्मीकि द्वारा श्रीगणेश का स्तवन, शनिवज्रपंजरकवचम्, शनैश्चरस्तवराजः, शनैश्चरस्तोत्रम्, ऋणमोचकमङ्गलस्तोत्रम्, अङ्गारक अष्टोत्तर शतनामावलि, चन्द्र अष्टोत्तरशतनामावलिः , बुध अष्टोत्तरशतनामवलिः, शुक्र अष्टोत्तरशतनामावलिः , केतु१०८, द्वादश ज्योतिर्लिङ्ग स्तोत्रम्, श्रीविश्वनाथाष्टकं, श्री वैद्यनाथाष्टकम्, शिवाष्टकं, गुरु अष्टोत्तरशतनामावलिः , श्री सिद्धि विनायक नामावलि, श्री विनायक अष्टोत्तरशत नामावली

One Comment
very good