श्री विनायक अष्टोत्तरशत नामावली

॥ श्री गणेश अष्टोतर नामावलि ॥

ॐ अकल्मषाय नमः ।
ॐ अग्निगर्भच्चिदे नमः ।
ॐ अग्रण्ये नमः ।
ॐ अजाय नमः ।
ॐ अद्भुतमूर्तिमते नमः ।
ॐ अध्यक्क्षाय नमः ।
ॐ अनेकाचिताय नमः ।
ॐ अव्यक्तमूर्तये नमः ।
ॐ अव्ययाय नमः ।
ॐ अव्ययाय नमः ।
ॐ आश्रिताय नमः ।
ॐ इन्द्रश्रीप्रदाय नमः ।
ॐ इक्षुचापधृते नमः ।
ॐ उत्पलकराय नमः ।
ॐ एकदन्ताय नमः ।
ॐ कलिकल्मषनाशनाय नमः ।
ॐ कान्ताय नमः ।
ॐ कामिने नमः ।
ॐ कालाय नमः ।
ॐ कुलाद्रिभेत्त्रे नमः ।
ॐ कृतिने नमः ।
ॐ कैवल्यशुखदाय नमः ।
ॐ गजाननाय नमः ।
ॐ गणेश्वराय नमः ।
ॐ गतिने नमः ।
ॐ गुणातीताय नमः ।
ॐ गौरीपुत्राय नमः ।
ॐ ग्रहपतये नमः ।
ॐ चक्रिणे नमः ।
ॐ चण्डाय नमः ।
ॐ चतुराय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ चतुर्मूर्तिने नमः ।
ॐ चन्द्रचूडामण्ये नमः ।
ॐ जटिलाय नमः ।
ॐ तुष्टाय नमः ।
ॐ दयायुताय नमः ।
ॐ दक्षाय नमः ।
ॐ दान्ताय नमः ।
ॐ दूर्वाबिल्वप्रियाय नमः ।
ॐ देवाय नमः ।
ॐ द्विजप्रियाय नमः ।
ॐ द्वैमात्रेएयाय नमः ।
ॐ धीराय नमः ।
ॐ नागराजयज्ञोपवीतवते नमः ।
ॐ निरङ्जनाय नमः ।
ॐ परस्मै नमः ।
ॐ पापहारिणे नमः ।
ॐ पाशांकुशधराय नमः ।
ॐ पूताय नमः ।
ॐ प्रमत्तादैत्यभयताय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ बीजापूरफलासक्ताय नमः ।
ॐ बुद्धिप्रियाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ ब्रह्मद्वेषविवर्जिताय नमः ।
ॐ ब्रह्मविदुत्तमाय नमः ।
ॐ भक्तवाञ्छितदायकाय नमः ।
ॐ भक्तविघ्नविनाशनाय नमः ।
ॐ भक्तिप्रियाय नमः ।
ॐ मायिने नमः ।
ॐ मुनिस्तुत्याय नमः ।
ॐ मूषिकवाहनाय नमः ।
ॐ रमार्चिताय नमः ।
ॐ लंबोदराय नमः ।
ॐ वरदाय नमः ।
ॐ वागीशाय नमः ।
ॐ वाणीप्रदाय नमः ।
ॐ विघ्नराजाय नमः ।
ॐ विधये नमः ।
ॐ विनायकाय नमः ।
ॐ विभुदेश्वराय नमः ।
ॐ वीतभयाय नमः ।
ॐ शक्तिसम्युताय नमः ।
ॐ शान्ताय नमः ।
ॐ शाश्वताय नमः ।
ॐ शिवाय नमः ।
ॐ शुद्धाय नमः ।
ॐ शूर्पकर्णाय नमः ।
ॐ शैलेन्द्रतनुजोत्सङ्गकेलनोत्सुकमानसाय नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ श्रीकराय नमः ।
ॐ श्रीदाय नमः ।
ॐ श्रीप्रतये नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ समस्तजगदाधाराय नमः ।
ॐ समाहिताय नमः ।
ॐ सर्वतनयाय नमः ।
ॐ सर्वरीप्रियाय नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ सर्वसिद्धिप्रदायकाय नमः ।
ॐ सर्वात्मकाय नमः ।
ॐ सामघोषप्रियाय नमः ।
ॐ सिद्धार्चितपदांबुजाय नमः ।
ॐ सिद्धिदायकाय नमः ।
ॐ सृष्टिकर्त्रे नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ सौम्याय नमः ।
ॐ स्कन्दाग्रजाय नमः ।
ॐ स्तुतिहर्षिताय नमः ।
ॐ स्थुलकण्ठाय नमः ।
ॐ स्थुलतुण्डाय नमः ।
ॐ स्वयंकर्त्रे नमः ।
ॐ स्वयंसिद्धाय नमः ।
ॐ स्वलावण्यसुतासारजितमन्मथविग्रहाय नमः ।
ॐ हरये नमः ।
ॐ हॄष्ठाय नमः ।
ॐ ज्ञानिने नमः ।

॥ इति श्री विनायक अष्टोत्तरशत नामावली संपूर्णम् ॥

श्री सिद्धि विनायक नामावलि

||श्री सिद्धि विनायक नामावलि ||
ॐ विनायकाय नमः |
ॐ विघ्नराजाय नमः |
ॐ गौरीपुत्राय नमः |
ॐ गणेश्वराय नमः |
ॐ स्कन्दाग्रजाय नमः |
ॐ अव्ययाय नमः |
ॐ पूताय नमः |
ॐ दक्षाध्यक्ष्याय नमः |
ॐ द्विजप्रियाय नमः |
ॐ अग्निगर्भच्छिदे नमः |
ॐ इंद्रश्रीप्रदाय नमः |
ॐ वाणीबलप्रदाय नमः |
ॐ सर्वसिद्धिप्रदायकाय नमः |
ॐ शर्वतनयाय नमः |
ॐ गौरीतनूजाय नमः |
ॐ शर्वरीप्रियाय नमः |
ॐ सर्वात्मकाय नमः |
ॐ सृष्टिकर्त्रे नमः |
ॐ देवानीकार्चिताय नमः |
ॐ शिवाय नमः |
ॐ शुद्धाय नमः |
ॐ बुद्धिप्रियाय नमः |
ॐ शांताय नमः |
ॐ ब्रह्मचारिणे नमः |
ॐ गजाननाय नमः |
ॐ द्वैमातुराय नमः |
ॐ मुनिस्तुत्याय नमः |
ॐ भक्त विघ्न विनाशनाय नमः |
ॐ एकदंताय नमः |
ॐ चतुर्बाहवे नमः |
ॐ शक्तिसंयुताय नमः |
ॐ चतुराय नमः |
ॐ लंबोदराय नमः |
ॐ शूर्पकर्णाय नमः |
ॐ हेरंबाय नमः |
ॐ ब्रह्मवित्तमाय नमः |
ॐ कालाय नमः |
ॐ ग्रहपतये नमः |
ॐ कामिने नमः |
ॐ सोमसूर्याग्निलोचनाय नमः |
ॐ पाशांकुशधराय नमः |
ॐ छन्दाय नमः |
ॐ गुणातीताय नमः |
ॐ निरंजनाय नमः |
ॐ अकल्मषाय नमः |
ॐ स्वयंसिद्धार्चितपदाय नमः |
ॐ बीजापूरकराय नमः |
ॐ अव्यक्ताय नमः |
ॐ गदिने नमः |
ॐ वरदाय नमः |
ॐ शाश्वताय नमः |
ॐ कृतिने नमः |
ॐ विद्वत्प्रियाय नमः |
ॐ वीतभयाय नमः |
ॐ चक्रिणे नमः |
ॐ इक्षुचापधृते नमः |
ॐ अब्जोत्पलकराय नमः |
ॐ श्रीधाय नमः |
ॐ श्रीहेतवे नमः |
ॐ स्तुतिहर्षताय नमः |
ॐ कलाद्भृते नमः |
ॐ जटिने नमः |
ॐ चन्द्रचूडाय नमः |
ॐ अमरेश्वराय नमः |
ॐ नागयज्ञोपवीतिने नमः |
ॐ श्रीकांताय नमः |
ॐ रामार्चितपदाय नमः |
ॐ वृतिने नमः |
ॐ स्थूलकांताय नमः |
ॐ त्रयीकर्त्रे नमः |
ॐ संघोषप्रियाय नमः |
ॐ पुरुषोत्तमाय नमः |
ॐ स्थूलतुण्डाय नमः |
ॐ अग्रजन्याय नमः |
ॐ ग्रामण्ये नमः |
ॐ गणपाय नमः |
ॐ स्थिराय नमः |
ॐ वृद्धिदाय नमः |
ॐ सुभगाय नमः |
ॐ शूराय नमः |
ॐ वागीशाय नमः |
ॐ सिद्धिदाय नमः |
ॐ दूर्वाबिल्वप्रियाय नमः |
ॐ कान्ताय नमः |
ॐ पापहारिणे नमः |
ॐ कृतागमाय नमः |
ॐ समाहिताय नमः |
ॐ वक्रतुण्डाय नमः |
ॐ श्रीप्रदाय नमः |
ॐ सौम्याय नमः |
ॐ भक्ताकांक्षितदाय नमः |
ॐ अच्युताय नमः |
ॐ केवलाय नमः |
ॐ सिद्धाय नमः |
ॐ सच्चिदानंदविग्रहाय नमः |
ॐ ज्ञानिने नमः |
ॐ मायायुक्ताय नमः |
ॐ दन्ताय नमः |
ॐ ब्रह्मिष्ठाय नमः |
ॐ भयावर्चिताय नमः |
ॐ प्रमत्तदैत्यभयदाय नमः |
ॐ व्यक्तमूर्तये नमः |
ॐ अमूर्तये नमः |
ॐ पार्वतीशंकरोत्संगखेलनोत्सवलालनाय नमः |
ॐ समस्तजगदाधाराय नमः |
ॐ वरमूषकवाहनाय नमः |
ॐ हृष्टस्तुताय नमः |
ॐ प्रसन्नात्मने नमः |
ॐ सर्वसिद्धिप्रदायकाय नमः |
||इति श्रीसिद्धिविनायकाष्टोत्तरशतनामावलिः ||

गुरु अष्टोत्तरशतनामावलिः

||गुरु अष्टोत्तरशतनामावलिः || 
गुरु बीज मन्त्र - 
ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ||

ॐ गुणाकराय नमः ||
ॐ गोप्त्रे नमः ||
ॐ गोचराय नमः ||
ॐ गोपतिप्रियाय नमः ||
ॐ गुणिने नमः ||
ॐ गुणवतां श्रेष्थाय नमः ||
ॐ गुरूणां गुरवे नमः ||
ॐ अव्ययाय नमः ||
ॐ जेत्रे नमः ||
ॐ जयन्ताय नमः ||
ॐ जयदाय नमः ||
ॐ जीवाय नमः ||
ॐ अनन्ताय नमः ||
ॐ जयावहाय नमः ||
ॐ आङ्गिरसाय नमः ||
ॐ अध्वरासक्ताय नमः ||
ॐ विविक्ताय नमः ||
ॐ अध्वरकृत्पराय नमः ||
ॐ वाचस्पतये नमः ||
ॐ वशिने नमः ||
ॐ वश्याय नमः ||
ॐ वरिष्ठाय नमः ||
ॐ वाग्विचक्षणाय नमः ||
ॐ चित्तशुद्धिकराय नमः ||
ॐ श्रीमते नमः ||
ॐ चैत्राय नमः ||
ॐ चित्रशिखण्डिजाय नमः ||
ॐ बृहद्रथाय नमः ||
ॐ बृहद्भानवे नमः ||
ॐ बृहस्पतये नमः ||
ॐ अभीष्टदाय नमः ||
ॐ सुराचार्याय नमः ||
ॐ सुराराध्याय नमः ||
ॐ सुरकार्यकृतोद्यमाय नमः ||
ॐ गीर्वाणपोषकाय नमः ||
ॐ धन्याय नमः ||
ॐ गीष्पतये नमः ||
ॐ गिरीशाय नमः ||
ॐ अनघाय नमः ||
ॐ धीवराय नमः ||
ॐ धिषणाय नमः ||
ॐ दिव्यभूषणाय नमः ||
ॐ देवपूजिताय नमः ||
ॐ धनुर्धराय नमः ||
ॐ दैत्यहन्त्रे नमः ||
ॐ दयासाराय नमः ||
ॐ दयाकराय नमः ||
ॐ दारिद्र्यनाशनाय नमः ||
ॐ धन्याय नमः ||
ॐ दक्षिणायनसंभवाय नमः ||
ॐ धनुर्मीनाधिपाय नमः ||
ॐ देवाय नमः ||
ॐ धनुर्बाणधराय नमः ||
ॐ हरये नमः ||
ॐ अङ्गिरोवर्षसंजताय नमः ||
ॐ अङ्गिरःकुलसंभवाय नमः ||
ॐ सिन्धुदेशाधिपाय नमः ||
ॐ धीमते नमः ||
ॐ स्वर्णकायाय नमः ||
ॐ चतुर्भुजाय नमः ||
ॐ हेमाङ्गदाय नमः ||
ॐ हेमवपुषे नमः ||
ॐ हेमभूषणभूषिताय नमः ||
ॐ पुष्यनाथाय नमः ||
ॐ पुष्यरागमणिमण्डलमण्डिताय नमः ||
ॐ काशपुष्पसमानाभाय नमः ||
ॐ इन्द्राद्यमरसंघपाय नमः ||
ॐ असमानबलाय नमः ||
ॐ सत्त्वगुणसंपद्विभावसवे नमः ||
ॐ भूसुराभीष्टदाय नमः ||
ॐ भूरियशसे नमः ||
ॐ पुण्यविवर्धनाय नमः ||
ॐ धर्मरूपाय नमः ||
ॐ धनाध्यक्षाय नमः ||
ॐ धनदाय नमः ||
ॐ धर्मपालनाय नमः ||
ॐ सर्ववेदार्थतत्त्वज्ञाय नमः ||
ॐ सर्वापद्विनिवारकाय नमः ||
ॐ सर्वपापप्रशमनाय नमः ||
ॐ स्वमतानुगतामराय नमः ||
ॐ ऋग्वेदपारगाय नमः ||
ॐ ऋक्षराशिमार्गप्रचारवते नमः ||
ॐ सदानन्दाय नमः ||
ॐ सत्यसंधाय नमः ||
ॐ सत्यसंकल्पमानसाय नमः ||
ॐ सर्वागमज्ञाय नमः ||
ॐ सर्वज्ञाय नमः ||
ॐ सर्ववेदान्तविदे नमः ||
ॐ ब्रह्मपुत्राय नमः ||
ॐ ब्राह्मणेशाय नमः ||
ॐ ब्रह्मविद्याविशारदाय नमः ||
ॐ समानाधिकनिर्मुक्ताय नमः ||
ॐ सर्वलोकवशंवदाय नमः ||
ॐ ससुरासुरगन्धर्ववन्दिताय नमः ||
ॐ सत्यभाषणाय नमः ||
ॐ बृहस्पतये नमः ||
ॐ सुराचार्याय नमः ||
ॐ दयावते नमः ||
ॐ शुभलक्षणाय नमः ||
ॐ लोकत्रयगुरवे नमः ||
ॐ श्रीमते नमः ||
ॐ सर्वगाय नमः ||
ॐ सर्वतो विभवे नमः ||
ॐ सर्वेशाय नमः ||
ॐ सर्वदातुष्टाय नमः ||
ॐ सर्वदाय नमः ||
ॐ सर्वपूजिताय नमः || 
||इति गुरु अष्टोत्तरशतनामावलिः सम्पूर्णम् ||

शिवाष्टकं

॥ शिवाष्टकं ॥

॥ अथ श्री शिवाष्टकं ॥

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजाम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।
जटाजूटभङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥

मुदामाकरं मण्डनं मण्डयन्तं महामण्डल भस्मभूषधरंतम् ।
अनादिह्यपारं महामोहहारं शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥

तटाधो निवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥

गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ५॥

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ६॥

शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥ ७॥

हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वदन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥ ८॥

स्तवं यः प्रभाते नरः शूलपाणे पठेत् सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९॥

॥ इति शिवाष्टकम् ॥

श्री वैद्यनाथाष्टकम्

|| वैद्यनाथाष्टकम्||

श्रीरामसौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय |
श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमःशिवाय || १||

शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव |
शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव ||

गङ्गाप्रवाहेन्दु जटाधराय त्रिलोचनाय स्मर कालहन्त्रे |
समस्त देवैरभिपूजिताय श्रीवैद्यनाथाय नमः शिवाय || २||

शंभो महादेव . . . . 

भक्तःप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् |
प्रत्यक्षलीलाय मनुष्यलोके श्रीवैद्यनाथाय नमः शिवाय || ३||

शंभो महादेव . . . . 

प्रभूतवातादि समस्तरोग प्रनाशकर्त्रे मुनिवन्दिताय |
प्रभाकरेन्द्वग्नि विलोचनाय श्रीवैद्यनाथाय नमः शिवाय || ४||

शंभो महादेव . . . . 

वाक् श्रोत्र नेत्राङ्घ्रि विहीनजन्तोः वाक्श्रोत्रनेत्रांघ्रिसुखप्रदाय |
कुष्ठादिसर्वोन्नतरोगहन्त्रे श्रीवैद्यनाथाय नमः शिवाय || ५||

शंभो महादेव . . . . 

वेदान्तवेद्याय जगन्मयाय योगीश्वरद्येय पदाम्बुजाय |
त्रिमूर्तिरूपाय सहस्रनाम्ने श्रीवैद्यनाथाय नमः शिवाय || ६||

शंभो महादेव . . . . 

स्वतीर्थमृद्भस्मभृताङ्गभाजां पिशाचदुःखार्तिभयापहाय |
आत्मस्वरूपाय शरीरभाजां श्रीवैद्यनाथाय नमः शिवाय || ७||

शंभो महादेव . . . . 

श्रीनीलकण्ठाय वृषध्वजाय स्रक्गन्ध भस्माद्यभिशोभिताय |
सुपुत्रदारादि सुभाग्यदाय श्रीवैद्यनाथाय नमः शिवाय || ८||

शंभो महादेव . . . . 

वालाम्बिकेश वैद्येश भवरोगहरेति च |
जपेन्नामत्रयं नित्यं महारोगनिवारणम् || ९||

शंभो महादेव . . . . 

|| इति श्री वैद्यनाथाष्टकम् ||