Category Archives: अध्यात्म

वेद, पुराण, संहिता, ब्राह्मण, आरण्यक, उपनिषद्, शिक्षा, कल्प, व्याकरण, छन्द, ज्योतिष आदि में वर्णित ज्ञान-विज्ञान के संग्रह का एक छोटा सा प्रयास है।

महालक्ष्मी-कवच

महालक्ष्मी-कवच                         नारायण उवाच सर्व सम्पत्प्रदस्यास्य कवचस्य प्रजापतिः। ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम्।।१ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः। पुण्यबीजं च महतां कवचं परमाद्भुतम्।।२ ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्। श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः।।३ ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदावतु। […]

श्री विनायक अष्टोत्तरशत नामावली

॥ श्री गणेश अष्टोतर नामावलि ॥ ॐ अकल्मषाय नमः । ॐ अग्निगर्भच्चिदे नमः । ॐ अग्रण्ये नमः । ॐ अजाय नमः । ॐ अद्भुतमूर्तिमते नमः । ॐ अध्यक्क्षाय नमः । ॐ अनेकाचिताय नमः । ॐ अव्यक्तमूर्तये नमः । ॐ अव्ययाय नमः । ॐ अव्ययाय नमः । ॐ आश्रिताय नमः । ॐ इन्द्रश्रीप्रदाय नमः । ॐ […]

शिवाष्टकं

॥ शिवाष्टकं ॥ ॥ अथ श्री शिवाष्टकं ॥ प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजाम् । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् । जटाजूटभङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डल भस्मभूषधरंतम् । अनादिह्यपारं महामोहहारं शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥ तटाधो निवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम् । गिरीशं […]

श्री वैद्यनाथाष्टकम्

|| वैद्यनाथाष्टकम्|| श्रीरामसौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय | श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमःशिवाय || १|| शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव | शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव || गङ्गाप्रवाहेन्दु जटाधराय त्रिलोचनाय स्मर कालहन्त्रे | समस्त देवैरभिपूजिताय श्रीवैद्यनाथाय नमः शिवाय || २|| शंभो महादेव . . . .  भक्तःप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् | […]

श्रीविश्वनाथाष्टकं

|| विश्वनाथाष्टकम् || गङ्गातरंगरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम् | नारायणप्रियमनंगमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् || वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् | वामेनविग्रहवरेणकलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् || भूताधिपं भुजगभूषणभूषितांगं  व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् | पाशांकुशाभयवरप्रदशूलपाणिं  वाराणसीपुरपतिं भज विश्वनाथम् | शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपंचबाणम् | नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् || पंचाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुंगवपन्नगानाम् | दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम् || तेजोमयं सगुणनिर्गुणमद्वितीयं आनन्दकन्दमपराजितमप्रमेयम् | नागात्मकं सकलनिष्कलमात्मरूपं […]