Tag Archives: द्वादश ज्योतिर्लिङ्

द्वादश ज्योतिर्लिङ्ग स्तोत्रम्

|| द्वादश ज्योतिर्लिङ्ग स्तोत्रम् || सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् | भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये || १|| श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् | तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् || २|| अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् | अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् || ३|| कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय | सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे || ४|| पूर्वोत्तरे प्रज्वलिकानिधाने सदा […]